संवत्सरप्रवृत्तिः

संवत्सरप्रवृत्ति:

कथं संवत्सरप्रवृतिः भवति इति विषये प्रमाणवाक्यानि प्रस्तूयन्ते।

वेदाङ्गज्योतिषे चान्द्रमानेन प्रभवादि सम्वत्सराणां प्रवृत्तिरुक्ता।

भानुघ्नभागादि समैरहोभिस्तस्य प्रवृत्तिः प्रथमं क्रियात्स्यात्।
इत्यनेन क्वचित्सौरमानेनोक्ता।

इति त्रिधा प्रभवादि षष्टिसम्वत्सराणां प्रवृत्तिर्दृश्यते-
– चान्द्रमानेन संवत्सरप्रवृत्तिः
– सौरमानेन संवत्सरप्रवृत्तिः
– बार्हस्पत्यमानेन संवत्सरप्रवृत्तिः

इदानीम् एतेषां संवत्सराणां वैशिष्ट्यं विचार्यते-

बार्हस्पत्यसंवत्सरस्य वैशिष्ट्यम्

प्रभवादिप्रवृत्तिः बार्हस्पत्यमानेनैव उक्ता ।
यथोक्तं सूर्यसिद्धान्ते-
बार्हस्पत्येन षष्ट्यब्दं ज्ञेयं नान्यैस्तु नित्यशः।।

लघुवसिष्ठसिद्धान्ते-
मध्यगत्या भभोगेन गुरोर्गौरव वत्सराः॥

भास्कराचार्योऽपि-
बृहस्पतेर्मध्यमराशिभोगं साम्वत्सरं सांहितिका वदन्ति॥

अनेन मध्यमगुरुराशिभोगकालेनैव प्रभवादिषष्ट्यब्दप्रवृत्तिः सूचिता।

पुनश्च फलनिर्देशस्तु गुरुमानोत्पन्न प्रभवादिसम्वत्सराणामित्येवाह वसिष्ठः-
षष्ट्यब्दजन्मप्रभवादिकानां फलं च सर्वं गुरुमानतः स्यात्॥

यथाह गर्गः-
माघशुक्लं समारभ्य चन्द्रार्कौ वासवर्क्षगौ।
जीवशुक्लौ यदा स्यातां षष्ट्यब्दादिस्तदा भवेत्॥

श्रीपतिः-
इयं हि षष्टिः परिवत्सराणां बृहस्पतेर्मध्यमराशिभोगात्।
उदाहृता पूर्वमुनिप्रवीणै-र्नियोजनीया गणना क्रमेण॥

चान्द्रसंवत्सरप्रवृत्तेः वैशिष्ट्यम्

स्मृत्यादिकर्मसु सर्वत्र चान्द्रसंवत्सरस्येव ग्रहणं भवति।

यथोक्तं पैतामहसिद्धान्ते-
प्रमाथी प्रथमं वर्षं कल्पादौ ब्रह्मणा स्मृतम्।
तदा हि षष्टिहृच्छाके शेषं चान्द्रोऽत्र वत्सरः॥
व्यावहारिकसंज्ञोऽयं कालः स्मृत्यादिकर्मसु।
योज्यः सर्वत्र तत्रापि जैवो वा नर्मदोत्तरे॥

अपि च आर्ष्टिषेणिः-
स्मरेत्सर्वत्र कर्मादौ चान्द्रसम्वत्सरं तदा।
नान्यं यस्माद्वत्सरादौ प्रवृत्तिस्तस्य कीर्तिता॥

सौरसंवत्सरस्य वैशिष्ट्यम्

सौरवर्षप्रवेशः प्रतिवर्षं सौरमेषसंक्रान्तौ भवति, तत्तु चान्द्रवर्षानुसारं परिवर्तनशीलं न भवति। अतः राजकार्येषु सौरसंवत्सरस्य ग्रहणं सुगगम्। उत्तरभारतीयक्षेत्रेषु तथा च नेपालादिदेशेषु सौरवर्षमानस्य प्रचलनं वर्तते, अत एव सौरसंवत्सरस्याऽपि महद् वैशिष्ट्यं वर्तते।

पं.ब्रजेशपाठकज्यौतिषाचार्यः

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top